Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers podcast

Sri Kameshwari Stuti श्री कामेश्वरी स्तुति

0:00
3:16
Reculer de 15 secondes
Avancer de 15 secondes

Sri Kameshwari Stuti श्री कामेश्वरी स्तुति


ओम ऐं ह्मीं क्लीं कामाख्यायै नमः।

ओम क्लीं क्लीं कामाख्या क्लीं क्लीं नमः।

युधिष्ठिर उवाच -

नमस्ते परमेशानि ब्रह्मरूपे सनातनि ।

सुरासुरजगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ १॥


न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः ।

प्रसीद जगतामाद्ये कामेश्वरि नमोऽस्तु ते ॥ २॥


अनादिपरमा विद्या देहिनां देहधारिणी ।

त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ ३॥


त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृतिः ।

त्वं प्रबोधश्च निद्रा च कामेश्वरि नमोऽस्तु ते ॥ ४॥


त्वामाराध्य महेशोऽपि कृतकृत्यं हि मन्यते ।

आत्मानं परमात्माऽपि कामेश्वरि नमोऽस्तु ते ॥ ५॥


दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे ।

लोकानां तापसंहर्त्रि कामेश्वरि नमोऽस्तु ते ॥ ६॥


त्वमेका सर्वलोकानां सृष्टिस्थित्यन्तकारिणी ।

करालवदने कालि कामेश्वरि नमोऽस्तु ते ॥ ७॥


प्रपन्नार्तिहरे मातः सुप्रसन्नमुखाम्बुजे ।

प्रसीद परमे पूर्णे कामेश्वरि नमोऽस्तु ते ॥ ८॥


त्वामाश्रयन्ति ये भक्त्या यान्ति चाश्रयतां तु ते ।

जगतां त्रिजगद्धात्रि कामेश्वरि नमोऽस्तु ते ॥ ९॥


शुद्धज्ञानमये पूर्णे प्रकृतिः सृष्टिभाविनी ।

त्वमेव मातर्विश्वेशि कामेश्वरि नमोऽस्तु ते ॥ १०॥


।।इति श्रीमहाभागवते महापुराणे युधिष्ठिरकृता कामेश्वरीस्तुतिः सम्पूर्णा ।।

D'autres épisodes de "Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers"