Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers podcast

Hanumat Kavacham हनुमत् कवचम्

0:00
6:06
Spola tillbaka 15 sekunder
Spola framåt 15 sekunder

श्रीमदानन्दरामायणान्तर्गत श्रीहनुमत्कवचं!! ✓


ॐ श्री हनुमते नमः ॥

ॐ अस्य श्रीहनुमत्कवच स्तोत्र महामन्त्रस्य,

श्रीरामचन्द्र ऋषिः । श्रीहनुमान् परमात्मा देवता ।

अनुष्टुप् छन्दः। मारुतात्मजेति बीजंअञ्जनीसूनुरिति शक्तिः। लक्ष्मणप्राणदातेति कीलकं ।

रामदूतायेत्यस्त्रं । हनुमान् देवता इति कवचं ।

पिङ्गाक्षोमित विक्रम इति मन्त्रः।श्रीरामचन्द्र प्रेरणया रामचन्द्र प्रीत्यर्थंमम सकल कामना सिद्ध्यर्थं जपे विनियोगः ॥


करन्यासः

ॐ ह्रां अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं रुद्र मूर्तये तर्जनीभ्यां नमः ।

ॐ ह्रूं रामदूताय मध्यमाभ्यां नमः ।

ॐ ह्रैं वायुपुत्राय अनामिकाभ्यां नमः ।

ॐ ह्रौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः ।

ॐ ह्रः ब्रह्मास्त्र निवारणाय करतल करपृष्ठाभ्यां नमः।

अङ्गन्यासः ॥

ॐ ह्रां अञ्जनीसुताय हृदयाय नमः ।

ॐ ह्रीं रुद्र मूर्तये शिरसे स्वाहा ।

ॐ ह्रूं रामदूताय शिकायै वषट् ।

ॐ ह्रैं वायुपुत्राय कवचाय हुं ।

ॐ ह्रौं अग्निगर्भाय नत्रत्रयाय वौषट् ।

ॐ ह्रः ब्रह्मास्त्र निवारणाय अस्त्राय फट् ।

भूर्भुवःसुवरोमिति दिग्बन्धः।


अथ ध्यानम् ॥

ध्यायेत्बालदिवाकर द्युतिनिभं देवारिदर्पापहं

देवेन्द्र प्रमुखं प्रशस्त यशसं देदीप्यमानं रुचा ।

सुग्रीवादि समस्तवानरयुतं सुव्यक्त तत्त्वप्रियं

संसक्तारुण लोचनं पवनजं पीताम्बरालङ्कृतं ॥ १॥


उद्यन् मार्ताण्डकोटि प्रकट रुचियुतं चारुवीरासनस्थं

मौञ्जी यज्ञोपवीताभरण रुचिशिखं शोभितं कुण्डलाङ्गं ।

भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनाद प्रमोदं

ध्यायेदेवं विधेयं प्लवग कुलपतिं गोष्पदीभूत वार्धिं ॥ २॥


वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डल मण्डितं

निगूढमुपसङ्गम्य पारावार पराक्रमं ॥ ३॥


स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिं ।

कुण्डल द्वय संशोभिमुखांभोजं हरिं भजे ॥ ४॥


सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुं ।

उद्यद् दक्षिण दोर्दण्डं हनुमन्तं विचिन्तयेत् ॥ ५॥


अथ मन्त्रः ॥

ॐ नमो हनुमते शोभिताननाय यशोलङ्कृताय

अञ्जनीगर्भ संभूताय। राम लक्ष्मणानन्दकाय।

कपिसैन्य प्रकाशन पर्वतोत्पाटनाय।

सुग्रीवसाह्यकरण परोच्चाटन। कुमार ब्रह्मचर्य।

गंभीर शब्दोदय।ॐ ह्रीं सर्वदुष्टग्रह निवारणाय स्वाहा।


ॐ नमो हनुमते एहि एहि।सर्वग्रह भूतानां शाकिनी डाकिनीनां विशमदुष्टानां सर्वेषामाकर्षयाकर्षय ।

मर्दय मर्दय । छेदय छेदय । मर्त्यान् मारय मारय ।

शोषय शोषय। प्रज्वल प्रज्वल।भूतमण्डल पिशाचमण्डल निरसनाय। भूतज्वर प्रेतज्वर चातुर्थिकज्वर ब्रह्मराक्षस पिशाचः छेदनः क्रिया विष्णुज्वर। महेशज्वरं छिन्धि छिन्धि। भिन्धि भिन्धि । अक्षिशूले शिरोभ्यन्तरे ह्यक्षिशूले गुल्मशूले

पित्तशूले ब्रह्म राक्षसकुल प्रबल नागकुलविष निर्विषझटितिझटिति । ॐ ह्रीं फट् घेकेस्वाहा ।


ॐ नमो हनुमते पवनपुत्र वैश्वानरमुख पापदृष्टि शोदा दृष्टि हनुमते घो अज्ञापुरे स्वाहा ।स्वगृहे द्वारे पट्टके तिष्डतिष्ठेति तत्र रोगभयं राजकुलभयं नास्ति ।

तस्योच्चारण मात्रेण सर्वे ज्वरा नश्यन्ति ।

ॐ ह्रां ह्रीं ह्रूं फट् घेघेस्वाहा ।


श्री रामचन्द्र उवाच-

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।

अधस्तु विष्णु भक्तस्तु पातु मध्यं च पावनिः ॥ १॥

लङ्का विदाहकः पातु सर्वापद्भ्यो निरन्तरं ।

सुग्रीव सचिव: पातु मस्तकं वायुनन्दनः ॥ २॥

भालं पातु महावीरो भृवोर्मध्ये निरन्तरं ।

नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ३॥

कपोले कर्णमूले च पातु श्रीरामकिङ्करः ।

नासाग्रं अञ्जनीसूनुः पातु वक्त्रं हरीश्वरः ॥ ४॥

वाचं रुद्रप्रियः पातु जिह्वां पिङ्गल लोचनः ।

पातु देवः फाल्गुनेष्टः चिबुकं दैत्यदर्पहा ॥ ५॥

पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ।

भुजौ पातु महातेजाः करौ च चरणायुधः ॥ ६॥

नगरन् नखायुधः पातु कुक्षौ पातु कपीश्वरः ।

वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ ७॥

लङ्का निभञ्जनः पातु पृष्ठदेशे निरन्तरं ।

नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः ॥ ८॥

गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः ।

ऊरू च जानुनी पातु लङ्काप्रसाद भञ्जनः ॥ ९॥

जङ्घे पातु कपिश्रेष्ठोः गुल्फौ पातु महाबलः ।

अचलोद्धारकः पातु पादौ भास्कर सन्निभः ॥ १०॥

अङ्गान्यमित सत्वाढ्यः पातु पादरङ्गुलीस्तथा ।

सर्वाङ्गानि महाशूरः पातु रोमाणि चाक्मवित् ॥ ११॥

हनुमत् कवचं यस्तु पठेद् विद्वान् विचक्षणः ।

स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥ १२॥

त्रिकालमेककालं वा पठेन् मासत्रयं नरः ।

सर्वान् रिपून् क्षणान् जित्वा स पुमान् श्रियमाप्नुयात् ॥ १३॥


इति श्रीशतकोटि रामचरितांतर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे श्रीहनुमत्कवचं सम्पूर्णं॥


Fler avsnitt från "Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers"