Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers podcast

Sri Krishna Brahmand Kavach श्री कृष्ण ब्रह्माण्ड कवच

0:00
7:24
Recuar 15 segundos
Avançar 15 segundos
Sri Krishna Brahmand Kavach श्री कृष्ण ब्रह्माण्ड कवच • ।। ब्रह्मोवाच ।। राधाकान्त महाभाग ! कवचं यत् प्रकाशितं । ब्रह्माण्ड-पावनं नाम, कृपया कथय प्रभो ! ।। १ मां महेशं च धर्मं च, भक्तं च भक्त-वत्सल । त्वत्-प्रसादेन पुत्रेभ्यो, दास्यामि भक्ति-संयुतः ।। २ ।। श्रीकृष्ण उवाच ।। श्रृणु वक्ष्यामि ब्रह्मेश ! धर्मेदं कवचं परं । अहं दास्यामि युष्मभ्यं, गोपनीयं सुदुर्लभम् ।। १ यस्मै कस्मै न दातव्यं, प्राण-तुल्यं ममैव हि । यत्-तेजो मम देहेऽस्ति, तत्-तेजः कवचेऽपि च ।। २ कुरु सृष्टिमिमं धृत्वा, धाता त्रि-जगतां भव । संहर्त्ता भव हे शम्भो ! मम तुल्यो भवे भव ।। ३ हे धर्म ! त्वमिमं धृत्वा, भव साक्षी च कर्मणां । तपसां फल-दाता च, यूयं भक्त मद्-वरात् ।। ४ ब्रह्माण्ड-पावनस्यास्य, कवचस्य हरिः स्वयं । ऋषिश्छन्दश्च गायत्री, देवोऽहं जगदीश्वर ! ।। ५ धर्मार्थ-काम-मोक्षेषु, विनियोगः प्रकीर्तितः । त्रि-लक्ष-वार-पठनात्, सिद्धिदं कवचं विधे ! ।। ६ यो भवेत् सिद्ध-कवचो, मम तुल्यो भवेत्तु सः । तेजसा सिद्धि-योगेन, ज्ञानेन विक्रमेण च ।। ७ ।। मूल-कवच-पाठ ।। विनियोगः- ॐ अस्य श्रीब्रह्माण्ड-पावन-कवचस्य श्रीहरिः ऋषिः, गायत्री छन्दः, श्रीकृष्णो देवता, धर्म-अर्थ-काम-मोक्षेषु विनियोगः । ऋष्यादि-न्यासः- श्रीहरिः ऋषये नमः शिरसि, गायत्री छन्दसे नमः मुखे, श्रीकृष्णो देवतायै नमः हृदि, धर्म-अर्थ-काम-मोक्षेषु विनियोगाय नमः सर्वांगे । प्रणवो मे शिरः पातु, नमो रासेश्वराय च । भालं पायान् नेत्र-युग्मं, नमो राधेश्वराय च ।। १ कृष्णः पायात् श्रोत्र-युग्मं, हे हरे घ्राणमेव च । जिह्विकां वह्निजाया तु, कृष्णायेति च सर्वतः ।। २ श्रीकृष्णाय स्वाहेति च, कण्ठं पातु षडक्षरः । ह्रीं कृष्णाय नमो वक्त्रं, क्लीं पूर्वश्च भुज-द्वयम् ।। ३ नमो गोपांगनेशाय, स्कन्धावष्टाक्षरोऽवतु । दन्त-पंक्तिमोष्ठ-युग्मं, नमो गोपीश्वराय च ।। ४ ॐ नमो भगवते रास-मण्डलेशाय स्वाहा । स्वयं वक्षः-स्थलं पातु, मन्त्रोऽयं षोडशाक्षरः ।। ५ ऐं कृष्णाय स्वाहेति च, कर्ण-युग्मं सदाऽवतु । ॐ विष्णवे स्वाहेति च, कंकालं सर्वतोऽवतु ।। ६ ॐ हरये नमः इति, पृष्ठं पादं सदऽवतु । ॐ गोवर्द्धन-धारिणे, स्वाहा सर्व-शरीरकम् ।। ७ प्राच्यां मां पातु श्रीकृष्णः, आग्नेय्यां पातु माधवः । दक्षिणे पातु गोपीशो, नैऋत्यां नन्द-नन्दनः ।। ८ वारुण्यां पातु गोविन्दो, वायव्यां राधिकेश्वरः । उत्तरे पातु रासेशः, ऐशान्यामच्युतः स्वयम् । सन्ततं सर्वतः पातु, परो नारायणः स्वयं ।। ९ ।। फल-श्रुति ।। इति ते कथितं ब्रह्मन् ! कवचं परमाद्भुतं । मम जीवन-तुल्यं च, युष्मभ्यं दत्तमेव च ।। •

Mais episódios de "Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers"