Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers podcast

Bala Krishna Ashtakam बालकृष्ण अष्टकम्

0:00
3:09
Spol 15 sekunder tilbage
Spol 15 sekunder frem

Bala Krishna Ashtakam बालकृष्ण अष्टकम्


श्रीमन्नन्दयशोदा हृदयस्थित भावतत्परो भगवान् ।

पुत्रीकृत निजरूपः स जयति पुरतः कृपालुर्बालकृष्णः ॥ १॥


कथमपि रिङ्गणम करोद ङ्गणगतजानु घर्षणोद्युक्तः ।

कटितटकिङ्किणि जालस्वन शङ्कितमानसः सदा ह्यास्ते ॥ २॥


विकसितपङ्कज नयनः प्रकटित हर्षः सदैव धूसराङ्गः ।

परिगच्छति कटिभङ्ग प्रसरीकृत पाणियुग्माभ्याम् ॥ ३॥


उपलक्षित दधिभाण्डः स्फुरितब्रह्माण्ड विग्रहो भुङ्क्ते ।

मुष्टीकृतनवनीतः परमपुनीतो मुग्धभावात्मा ॥ ४॥


नम्रीकृतविधुवदनः प्रकटीकृत चौर्यगोपनायासः ।

स्वाम्बोत् सङ्गविलासः क्षुधितः सम्प्रति दृश्यते स्तनार्थी ॥ ५॥


सिंहनखाकृति भूषणभूषित हृदयः सुशोभते नित्यम् ।

कुण्डलमण्डितगण्डः साञ्जन नयनो निरञ्जनः शेते ॥ ६॥


कार्यासक्त यशोदागृह कर्मावरोधकः सदाऽऽस्ते ।

तस्याः स्वान्त निविष्ट प्रणय प्रभाजनो यतोऽयम् ॥ ७॥


इत्थं व्रजपति तरुणी नमनीयं ब्रह्मरुद्राद्यैः ।

कमनीयं निजसूनुं लालयति स्म प्रत्यहं प्रीत्या ॥ ८॥


श्रीमद्वल्लभ कृपया विशदीकृतम एतदष्टकं पठेद्यः ।

तस्य दयानिधिकृष्णे भक्तिः प्रेमैकलक्षणा शीघ्रम् ॥ ९॥


इति श्रीकृष्णदासकृतं बालकृष्णाष्टकं सम्पूर्णम् ।


Flere episoder fra "Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers"